Aug 212009
 

|| श्रीगणेशस्तोत्र ||

 

रीगणेशाय नमः

नारद उवाच

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ,

भक्तावासं स्मरेनित्यं आयुःकामार्थसिद्धये .. १..

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ,

तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् .. २..

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ,

सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् .. ३..

नवमं भालचन्द्रं च दशमं तु विनायकम् ,

एकादशं गणपतिं द्वादशं तु गजाननम् .. ४..

द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः ,

न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः .. ५..

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ,

पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् .. ६..

जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ,

संवत्सरेण सिद्धिं च लभते नात्र संशयः .. ७..

अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ,

तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः .. ८.. ..

इति श्रीनारदपुराणे संकटनाशनं गणेशस्तोत्रं संपूर्णम् ..


Print Friendly, PDF & Email

 Leave a Reply

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>

(required)

(required)

This site uses Akismet to reduce spam. Learn how your comment data is processed.